वांछित मन्त्र चुनें

कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् । मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गाव॑: पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ॥

अंग्रेज़ी लिप्यंतरण

karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat | mitrakruvo yac chasane na gāvaḥ pṛthivyā āpṛg amuyā śayante ||

पद पाठ

कर्हि॑ । स्वि॒त् । सा । ते॒ । इ॒न्द्र॒ । चे॒त्या । अ॒स॒त् । अ॒घस्य॑ । यत् । भि॒नदः॑ । रक्षः॑ । आ॒ऽईष॑त् । मि॒त्र॒ऽक्रुवः॑ । यत् । शस॑ने । न । गावः॑ । पृ॒थि॒व्याः । आ॒ऽपृक् । अ॒मु॒या । शय॑न्ते ॥ १०.८९.१४

ऋग्वेद » मण्डल:10» सूक्त:89» मन्त्र:14 | अष्टक:8» अध्याय:4» वर्ग:16» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे परमात्मन् ! (ते) तेरी (कर्हिस्वित्) कदाचित् (सा चेत्या) वह चेतानेयोग्य प्रेरणीया शक्ति (यत्) यतः-जिससे (अघस्य रक्षः) पापी राक्षस के प्रति (एषत्-अभिनत्) आक्रमण करती है, उसे छिन्न-भिन्न कर देती है-नष्ट करती है (मित्रक्रुवः) मित्रघातक (यत्-शसने न) जैसे हिंसास्थान में (गावः) गौ आदि पशु मारे जाते हैं, (अमुया पृथिव्याः) उस शक्ति से पृथिवी के साथ (आपृक् शयन्ते) सम्यक् सम्पृक्त हुए मरे हुए सोते हैं ॥१४॥
भावार्थभाषाः - पापी राक्षस के प्रति परमात्मा की अस्त्रशक्ति जाती है, मार देती है। जैसे पापी जन के द्वारा गो आदि पशु मारे जाने से पृथिवी पर सो जाते हैं, ऐसे पापी जन मरकर पृथिवी पर सो जाते हैं ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे परमात्मन् ! (ते) तव (कर्हिस्वित्) कदाचित् (सा चेत्या) सा चेतयितव्या क्षेप्तव्या शक्तिः (यत्) यतः (अघस्य रक्षः-एषत् अभिनत्) पापिनम् “द्वितीयार्थे षष्ठी व्यत्ययेन” राक्षसं गच्छति भिनत्ति-नाशयति (मित्रक्रुवः) मित्रघातकाः (यत्-शसने न) यथा हिंसास्थाने (गावः) गावो गावादयः पशवो हिंस्यन्ते तथा (अमुया पृथिव्याः) अमुकया शक्त्या पृथिव्याः (आपृक् शयन्ते) आपृक्ताः समन्तात् सम्पृक्ताः खलु मृताः शेरते ॥१४॥